CulturalIndia - Literature - Sanskrit - Meghadootam
 
मेघदूतम्

कश्चित कान्ताविरहगुरुणा स्वाधिकारात प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः
यक्षश चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्चायातरुषु वसतिं रामगिर्याश्रमेषु // १.१ //

तस्मिन्न अद्रौ कतिचिद अबलाविप्रयुक्तः स कामी
नीत्वा मासान कनकवलयभ्रंशरिक्तप्रकोष्ठः
आषाढस्य प्रथमदिवसे मेघम आश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श // १.२ //

तस्य स्थित्वा कथम अपि पुरः कौतुकाधानहेतोर
अन्तर्बाष्पश चिरम अनुचरो राजराजस्य दध्यौ
मेघालोके भवति सुखिनो ऽप्य अन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर दूरसंस्थे // १.३ //

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन प्रवृत्तिम
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार // १.४ //

धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः
इत्य औत्सुक्याद अपरिगणयन गुह्यकस तं ययाचे
कामार्ता हि प्रकृतिकृपणाश चेतनाचेतएषु // १.५ //

जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः
तेनार्थित्वं त्वयि विधिवशाद दूरबन्धुर गतो ऽहं
याच्ञा मोघा वरम अधिगुणे नाधमे लब्धकामा // १.६ //

संतप्तानां त्वमसि शरणं तत पयोद प्रियायाः
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य
गन्तव्या ते वसतिर अलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या // १.७ //

त्वाम आरूढं पवनपदवीम उद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद आश्वसन्त्यः
कः संनद्धे विरहविधुरां त्वय्य उपेक्षेत जायां
न स्याद अन्यो ऽप्य अहम इव जनो यः पराधीनवृत्तिः // १.८ //

त्वां चावश्यं दिवसगणनातत्पराम एकपत्नीम
अव्यापन्नाम अविहतगतिर द्रक्ष्यसि भ्रातृजायाम
आशाबन्धः कुसुमसदृशं प्रायशो ह्य अङ्गनानां
सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि // १.९ //

मन्दं मन्दं नुदति पवनश चानुकूलो यथा त्वां
वामश चायं नदति मधुरं चातकस ते सगन्धः
गर्भाधानक्षणपरिचयान नूनम आबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः // १.१० //

कर्तुं यच च प्रभवति महीम उच्चिलीन्ध्राम अवन्ध्यां
तच च्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः
आ कैलासाद बिसकिसलयच्चेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः // १.११ //

आपृच्चस्व प्रियसखम अमुं तुङ्गम आलिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैर अङ्कितं मेखलासु
काले काले भवति भवतो यस्य संयोगम एत्य
स्नेहव्यक्तिश चिरविरहजं मुञ्चतो बाष्पमुष्णम // १.१२ //

मर्गं तावच चृणु कथयतस त्वत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम
खिन्नः खिन्नः शिहरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य // १.१३ //

अद्रेः शृङ्गं हरति पवनः किं स्विद इत्य उन्मुखीभिर
दृष्टोत्साहश चकितचकितं मुग्धसिद्धाङ्गनाभिः
स्थानाद अस्मात सरसनिचुलाद उत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन स्थूलहस्तावलेपान // १.१४ //

रत्नच्चायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद
वल्मीकाग्रात प्रभवति धनुःखण्डम आखण्डलस्य
येन श्यामं वपुर अतितरां कान्तिम आपत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः // १.१५ //

त्वय्य आयन्तं कृषिफलम इति भ्रूविकारान अभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः
सद्यःसीरोत्कषणसुरभि क्षेत्रम आरुह्य मालं
किंचित पश्चाद व्रज लघुगतिर भूय एवोत्तरेण // १.१६ //

त्वाम आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्य अध्वश्रमपरिगतं सानुमान आम्रकूटः
न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर यस तत्थोच्चैः // १.१७ //

चन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस
त्वय्य आरूढे शिखरम अचलः स्निग्धवेणीसवर्णे
नूनं यास्यत्य अमरमिथुनप्रेक्षणीयाम अवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः // १.१८ //

स्थित्वा तस्मिन वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस तत्परं वर्त्म तीर्णः
रेवां द्रक्ष्यस्य उपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्चेदैर इव विरचितां भूतिम अङ्गे गजस्य // १.१९ //

{अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस
तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः
आसारेण त्वम अपि शमयेस तस्य नैदाघम अग्निं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु // १.१९अ} //

तस्यास तिक्तैर वनगजमदैर वासितं वान्तवृष्टिर
जम्बूकुञ्जप्रतिहतरयं तोयम आदाय गच्चेः
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय // १.२० //

नीपं दृष्ट्वा हरितकपिशं केसरैर अर्धरूढैर
आविर्भूतप्रथममुकुलाः कन्दलीश चानुकच्चम
जग्ध्वारण्येष्व अधिकसुरभिं गन्धम आघ्राय चोर्व्याः
सारङ्गास ते जललवमुचः सूचयिष्यन्ति मार्गम // १.२१ //

अम्भोबिन्दुग्रहणचतुरांश चातकान वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः
त्वाम आसाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि // १.२२ //

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रतुद्यातः कथम अपि भवान गन्तुम आशु व्यवस्येत // १.२३ //

पाण्डुच्चायोपवनवृतयः केतकैः सूचिभिन्नैर
नीडारम्भैर गृहबलिभुजाम आकुलग्रामचैत्याः
त्वय्य आसन्ने परिणतफलश्यामजम्बूवनान्ताः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः // १.२४ //

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलम अविकलं कामुकत्वस्य लब्धा
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात
सभ्रूभङ्गं मुखम इव पयो वेत्रवत्याश चलोर्मि // १.२५ //

नीचैराख्यं गिरिम अधिवसेस तत्र विश्रामहेतोस
त्वत्सम्पर्कात पुलकितम इव प्रौढपुष्पैः कदम्बैः
यः पुण्यस्त्रीरतिपरिमलोद्गारिभिर नागराणाम
उद्दामानि प्रथयति शिलावेश्मभिर यौवनानि // १.२६ //

विश्रान्तः सन व्रज वननदीतीरजानां निषिञ्चन्न
उद्यानानां नवजलकणैर यूथिकाजाल्कानि
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
चायादानात क्षणपरिचितः पुष्पलावीमुखानाम // १.२७ //

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूर उज्जयिन्याः
विद्युद्दामस्फुरितचक्रितैस तत्र पौराङ्गनानां
लोलापाङ्गैर यदि न रमसे लोचनैर वञ्चितो ऽसि // १.२८ //

वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणाम आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु // १.२९ //

वेणीभूतप्रतनुसलिला ताम अतीतस्य सिन्धुः
पाण्डुच्चाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः // १.३० //

प्राप्यावन्तीन उदयनकथाकोविदग्रामवृद्धान
पूर्वोद्दिष्टाम उपसर पुरीं श्रीविशालां विशालाम
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर हृतम इव दिवः कान्तिमत खण्डम एकम // १.३१ //

दीर्घीकुर्वन पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः
यत्र स्त्रीणां हरति सुरतग्लानिम अङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः // १.३२ //

हारांस तारांस तरलगुटिकान कोटिशः शङ्कशुक्तीः
शष्पश्यामान मरकतमणीन उन्मयूखप्ररोहान
दृष्ट्वा यस्यां विपणिरचितान विद्रुमाणां च भङ्गान
संलक्ष्यन्ते सलिलनिधयस तोयमात्रावशेषाः // १.३३ //

प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे
हैमं तालद्रुमवनम अभूद अत्र तस्यैव राज्ञः
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भम उत्पाट्य दर्पाद
इत्य आगन्तून रमयति जनो यत्र बन्धून अभिज्ञः // १.३४ //

जालोद्गीर्णैर उपचितवपुः केशसंस्कारधूपैर
बन्धुप्रीत्या भवनशिख्जिभिर दत्तनृत्योपहारः
हर्म्येष्व अस्याः कुसुमसुरभिष्व अधवखेदं नयेथा
लक्ष्मीं पश्यंल ललितवनितापादरागाङ्कितेषु // १.३५ //

भर्तुः कण्ठच्चविर इति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास त्रिभुवनगुरोर धाम चण्डीश्वरस्य
धूतोद्यानं कुवलयरजोगन्धिभिर गन्धवत्यास
तोयक्रीडानिरतयुवतिस्नानतिक्तैर मरुद्भिः // १.३६ //

अप्य अन्यस्मिञ जलधर महाकालम आसाद्य काले
स्थातव्यं ते नयनविषयं यावद अत्येति भानुः
कुर्वन सन्ध्यावलिपटहतां शूलिनः श्लाघनीयाम
आमन्द्राणां फलम अविकलं लप्स्यसे गर्जितानाम // १.३७ //

पादन्यासैः क्वणितरशनास तत्र लीलावधूतै
रत्नच्चायाखचितवलिभिश चामरैः क्लान्तहस्ताः
वेश्यास त्वत्तो नखपदसुखान प्राप्य वर्षाग्रबिन्दून
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान कटक्षान // १.३८ //

पश्चाद उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः
सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः
नृत्तारम्भे हर पशुपतेर आर्द्रनागाजिनेच्चां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर भवान्या // १.३९ //

गच्चन्तीनां रमाणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस तमोभिः
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः // १.४० //

तां कस्यांचिद भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात खिन्नविद्युत्कलत्रः
दृष्टे सूर्ये पुनरपि भवान वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपतार्थकृत्याः // १.४१ //

तस्मिन काले नयनसलिअं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिर अतो वर्त्म भानोस त्यजाशु
प्रालेयास्त्रं कमलवदनात सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः // १.४२ //

गम्भीरायाः पयसि सरितश चेतसीव प्रसन्ने
चायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम
तस्माद अस्याः कुमुदविशदान्य अर्हसि त्वं न धैर्यान
मोघीकर्तुं चटुलशफोरोद्वर्तनप्रेक्षितानि // १.४३ //

तस्याः किंचित करधृतम इव प्राप्त्वाईरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम
प्रस्थानं ते कथम अपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्था // १.४४ //

त्वन्निष्यन्दोच्च्वसितवसुधागन्धसम्पर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः
नीचैर वास्यत्य उपजिगमिषोर देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम // १.४५ //

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान व्योमगङ्गाजलार्द्रैः
रक्षाहेतोर नवशशिभृता वासवीनां चमूनाम
अत्यादित्यं हुतवहमुखे संभृतं तद धि तेयः // १.४६ //

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति
धौतापाङ्गं हरशशिरुचा पावकेस तं मयूरं
पश्चाद अद्रिग्रहणगुरुभिर गर्जितैर नर्तयेथाः // १.४७ //

आराद्यैनं शरवणभवं देवम उल्लङ्घिताध्वा
सिद्धद्वन्द्वैर जलकणभयाद वीणिभिर मुक्तमार्गः
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम // १.४८ //

त्वय्य आदातुं जलम अवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुम अपि तनुं दूरभावात प्रवाहम
प्रेक्षिष्यन्ते गगनगतयो नूनम आवर्ज्य दृष्टिर
एकं भुक्तागुणम इव भुवः स्थूलमध्येन्द्रनीलम // १.४९ //

ताम उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपाद उपरिविलसत्कृष्णशारप्रभाणाम
कुन्दक्षेपानुगमधुकरश्रीमुषाम आत्मबिम्बं
पात्रीकुर्वन दशपुरवधूनेत्रकौतूहलानाम // १.५० //

ब्रह्मावर्तं जनपदम अथ च्चायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद भजेथाः
राजन्यानां शितशरशतैर यत्र गाण्डीवधन्वा
धारापातैस त्वम इव कमलान्य अभ्यवर्षन मुखानि // १.५१ //

हित्वा हालाम अभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे
कृत्वा तासाम अधिगमम अपां सौम्य सारस्वतीनाम
अन्तः शुद्धस त्वम अपि भविता वर्णमात्रेण कृष्णः // १.५२ //

तस्माद गच्चेर अनुकनखलं शैलराजावतीर्णां
जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणम अकरोद इन्दुलग्नोर्मिहस्ता // १.५३ //

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं चेद अच्चस्फटिकविशदं तर्कयेस तिर्यग अम्भः
संसर्पन्त्या सपदि भवतः स्रोतसि च्चाययासौ
स्याद अस्थानोपगतयमुनासंगमेवाभिरामा // १.५४ //

आसीनानां सुरभितशिलं नाभिगन्धैर मृगाणां
तस्या एव प्रभवम अचलं प्राप्य गौरं तुषारैः
वक्ष्यस्य अध्वश्रमविनयेन तस्य शृङ्गे निषण्णः
शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयम // १.५५ //

तं चेद वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः
अर्हस्य एनं शमयितुम अलं वारिधारासहस्रैर
आपन्नार्तिप्रशमनफलाः संपदो ह्य उत्तमानाम // १.५६ //

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर भवन्तम
तान कुर्वीथास तुमुलकरकावृष्टिपातावकीर्णन
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः // १.५७ //

तत्र व्यक्तं दृषदि चरणन्यासम अर्धेन्दुमौलेः
शश्वत सिद्धैर उपचितबलिं भक्तिनम्रः परीयाः
यस्मिन दृष्टे करणविगमाद ऊर्ध्वम उद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः // १.५८ //

शब्दायन्ते मधुरम अनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस त्रिपुरविजयो गीयते किंनराभिः
निर्ह्रादस ते मुरज इव चेत कन्दरेषु ध्वनिः स्यात
संगीतार्थो ननु पशुपतेस तत्र भावी समग्रः // १.५९ //

प्रालेयाद्रेर उपतटम अतिक्रम्य तांस तान विशेषान
हंसद्वारं भृगुपतियशोवर्त्म यत क्रौञ्चरन्ध्रम
तेनोदीचीं दिशम अनुसरेस तिर्यग आयामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः // १.६० //

गत्वा चोर्ध्वं दशमुखभुजोच्च्वासितप्रस्थसंधेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः
शृङ्गोच्च्रायैः कुमुदविशदैर यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनम इव त्र्यम्बकस्यट्टहासः // १.६१ //

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यः कृत्तद्विरददशनच्चेदगौरस्य तस्य
शोभाम अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम
अंसन्यस्ते सति हलभृतो मेचके वाससीव // १.६२ //

हित्वा तस्मिन भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत पादचारेण गौरी
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी // १.६३ //

तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम
ताभ्यो मोक्षस तव यदि सखे घर्मलब्धस्य न स्यात
क्रीडालोलाः श्रवणपरुषैर गर्जितैर भाययेस ताः // १.६४ //

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन कामं क्षणमुखपटप्रीतिम ऐरावतस्य
धुन्वन कल्पद्रुमकिसलयान यंशुकानीव वातैर
नानाचेष्टैर जलदललितैर निर्विशेस तं नगेन्द्रम // १.६५ //

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनर अलकां ज्ञास्यसे कामचारिन
या वः काले वहति सलिलोद्गारम उच्चैर विमाना
मुक्ताजालग्रथितम अलकं कामिनीवाभ्रवृन्दम // १.६६ //

{ऊत्तरमेघः}

विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम
अन्तस्तोयं मणिमयभुवस तुङ्गम अभ्रंलिहाग्राः
प्रासादास त्वां तुलयितुम अलं यत्र तैस तैर विशेषैः // २.१ //

हस्ते लीलाकमलम अलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुताम आनने श्रीः
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम // २.२ //

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः
केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः // २.३ //

आनन्दोत्थं नयनसलिलम्यत्र नान्यैर निमित्तैर
नान्यस तापं कुसुमशरजाद इष्टसंयोगसाध्यात
नाप्य अन्यस्मात प्रणयकलहाद विप्रयोगोपपत्तिर
वित्तेशानां न च खलु वयो यौवनाद अन्यद अस्ति // २.४ //

यस्यां यक्षाः सितमणिमयान्य एत्य हर्म्यस्थलानि
ज्योतिश्चायाकुसुमरचितान्य उत्तमस्त्रीसहायाः
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व आहतेषु // २.५ //

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर
मन्दाराणाम अनुतटरुहां चायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः // २.६ //

नीवीबन्धोच्च्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्व आक्षिपत्सु प्रियेषु
अर्चिस्तुङ्गान अभिमुखम अपि प्राप्य रत्नप्रदीपान
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः // २.७ //

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर
आलेख्यानां सलिलकणिकादोषम उत्पाद्य सद्यः
शङ्कास्पृष्टा इव जलमुचस त्वादृशा जालमार्गैर
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति // २.८ //

यत्र स्त्रीणां प्रियतमभुजोच्च्वासितालिङ्गितानाम
अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः
त्वत्संरोधापगमविशदश चन्द्रपादैर निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश चन्द्रकान्ताः // २.९ //

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर
उद्गायद्भिर धनपतियशः किंनरैर यत्र सार्धम
वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति // २.१० //

गत्युत्कम्पाद अलकपतितैर यत्र मन्दारपुष्पैः
पुत्रच्चेदैः कनककमलैः कर्णविस्रंशिभिश च
मुक्ताजालैः स्तनपरिसरच्चिन्नसूत्रैश च हारैर
नैशो मार्गः सवितुर उदये सूच्यते कामिनीनाम // २.११ //

वासश चित्रं मधु नयनयोर विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर भूषणानां विकल्पम
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम
एकः सूते सकलम अबलामण्डनं कल्पवृक्षः // २.१२ //

पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास त्वम इव करिणो वृष्टिमन्तः प्रभेदात
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश चन्द्रहासव्रणाङ्कैः // २.१३ //

मत्वा देवं धनपतिसखं यत्र साक्षाद वसन्तं
प्रायश चापं न वहति भयान मन्मथः षट्पदज्यम
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व अमोघैस
तस्यारम्भश चतुरवनिताविभ्रमैर एव सिद्धः // २.१४ //

तत्रागारं धनपतिगृहान उत्तरेणास्मदीयं
दूराल लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः // २.१५ //

वापी चास्मिन मरकतशिलाबद्धसोपानमार्गा
हैमैश्चन्ना विकचकमलैः स्निग्धवैदूर्यनालैः
यस्यास तोये कृतवसतयो मानसं संनिकृष्टं
नाध्यास्यन्ति व्यपगतशुचस त्वाम अपि प्रेक्ष्य हंसाः // २.१६ //

तस्यास तीरे रचितशिखरः पेशलैर इन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम एव स्मरामि // २.१७ //

रक्ताशोकश चलकिसलयः केसरश चात्र कान्तः
प्रत्यासन्नौ कुरुवकवृतेर माधवीमण्डपस्य
एकः सख्यास तव सह मया वामपादाभिलाषी
काङ्क्षत्य अन्यो वदनमदिरां दोहदच्चद्मनास्याः // २.१८ //

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर
मूले बद्धा मणिभिर अनतिप्रौढवंशप्रकाशैः
तालैः शिञ्जावलयसुभगैर नर्तितः कान्तया मे
याम अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद वः // २.१९ //

एभिः साधो हृदयनिहितैर लक्षणैर लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा
क्षामच्चायां भवनम अधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम // २.२० //

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः
अर्हस्य अन्तर्भवनपतितां कर्तुम अल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम // २.२१ //

तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः
श्रोणीभाराद अलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद युवतीविषये सृष्टिर आद्यैव धातुः // २.२२ //

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीम इवैकाम
गाढोत्कण्ठां गुरुषु दिवसेष्व एषु गच्चत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम // २.२३ //

नूनं तस्याः प्रबलरुदितोच्चूननेत्रं प्रियाया
निःश्वासानाम अशिशिरतया भिन्नवर्णाधरोष्ठम
हस्तन्यस्तं मुखम असकलव्यक्ति लम्बालकत्वाद
इन्दोर दैन्यं त्वदनुसरणक्लिष्टकान्तेर बिभर्ति // २.२४ //

आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती
पृच्चन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति // २.२५ //

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयम उद्गातुकामा
तन्त्रीम आर्द्रां नयनसलिलैः सारयित्वा कथंचिद
भूयो भूयः स्वयम अपि कृतां मूर्च्चनां विस्मरन्ती // २.२६ //

शेषान मासान विरहदिवासस्थापितस्यावधेर वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः
सम्भोगं वा हृदयनिहितारम्भम आस्वादयन्ती
प्रायेणैते रमणविरहेष्व अङ्गनानां विनोदाः // २.२७ //

सव्यापारम अहनि न तथा पीडयेद विप्रयोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते
मत्सन्देशः सुखयितुम अलं पश्य साध्वीं निशीथे
ताम उन्निद्राम अवनिशयनां सौधवातायनस्थः // २.२८ //

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां
प्राचीमूले तनुम इव कलामात्रशेषां हिमांशोः
नीता रात्रिः क्षण इव मया सार्धम इच्चारतैर या
ताम एवोष्णैर विरहमहतीम अश्रुभिर यापयन्तीम // २.२९ //

पादान इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान
पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव
चक्षुः खेदात सलिलगुरुभिः पक्ष्मभिश्चादयन्तीं
साभ्रेऽह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम // २.३० //

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात परुषमलकं नूनमागण्ण्दलम्बम
मत्संभोगः कथमुपनमेत स्वप्नजोऽपीति निद्राम
आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम // २.३१ //

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम
स्पर्शक्लिष्टाम अयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात कठिनविषमाम एकवेणीं करेण // २.३२ //

सा संन्यस्ताभरणम अबला पेशलं धारयन्ती
शय्योत्सङ्गे निहितम असकृद दुःखदुःखेन गात्रम
त्वाम अप्य अस्रं नवजलमयं मोचयिष्यत्य अवश्यं
प्रायः सर्वो भवति करुणावृत्तिर आर्द्रान्तरात्मा // २.३३ //

जाने सख्यास तव मयि मनः संभृतस्नेहमस्माद
इत्थंभूतां प्रथमविरहे ताम अहं तर्कयामि
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलम अचिराद भ्रातर उक्तं मया यत // २.३४ //

रुद्धापाङ्गप्रसरम अलकैर अञ्जनस्नेहशून्यं
प्रत्यादेशाद अपि च मधुनो विस्मृतभ्रूविलासम
त्वय्य आसन्ने नयनम उपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच चलकुवलयश्रीतुलाम एष्यतीति // २.३५ //

वामश चास्याः कररुहपदैर मुच्यमानो मदीयैर
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या
संभोगान्ते मम समुचितो हस्तसंवाहमानां
यास्यत्य ऊरुः सरसकदलीस्तम्भगौरश चलत्वम // २.३६ //

तस्मिन काले जलद यदि सा लब्धनिद्रासुखा स्याद
अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व
मा भूद अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम // २.३७ //

ताम उत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां समम अभिनवैर जालकैर मालतीनाम
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरः स्तनितवचनैर मानिनीं प्रक्रमेथाः // २.३८ //

भर्तुर मित्रं प्रियम अविधवे विद्धि माम अम्बुवाहं
तत्संदेशैर हृदयनिहितैर आगतं त्वत्समीपम
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां
मन्द्रस्निग्धैर ध्वनिभिर अबलावेणिमोक्षोत्सुकानि // २.३९ //

इत्य आख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वाम उत्कण्ठोच्च्वसितहृदया वीक्ष्य सम्भाव्य चैव
श्रोष्यत्य अस्मात परम अवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात किंचिद ऊनः // २.४० //

ताम आयुष्मन मम च वचनाद आत्मनश चोपकर्तुं
ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः
अव्यापन्नः कुशलम अबले पृच्चति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनाम एतद एव // २.४१ //

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतम अविरतोत्कण्ठम उत्कण्ठितेन
उष्णोच्च्वासं समधिकतरोच्च्वासिना दूरवर्ती
संकल्पैस तैर विशति विधिना वैरिणा रुद्धमार्गः // २.४२ //

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात
कर्णे लोलः कथयितुम अभूद आननस्पर्शलोभात
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम अदृष्टस
त्वाम उत्कण्ठाविरचितपदं मन्मुखेनेदम आह // २.४३ //

श्यामास्व अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्चायां शशिनि शिखिनां बर्हभारेषु केशान
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान
हन्तैकस्मिन क्वचिद अपि न ते चण्डि सादृश्यम अस्ति // २.४४ //

त्वाम आलिख्य प्रणयकुपितां धातुरागैः शिलायाम
आत्मानं ते चरणपतितं यावद इच्चामि कर्तुम
अस्रैस तावन मुहुर उपचितैर दृष्टिर आलुप्यते मे
क्रूरस तस्मिन्न अपि न सहते संगमं नौ कृतान्तः // २.४५ //

धारासिक्तस्थलसुरभिणस त्वन्मुखस्यास्य बाले
दूरीभूतं प्रतनुम अपि मां पञ्चबाणः क्षिणोति
घर्मान्ते ऽस्मिन विगणय कथं वासराणि व्रजेयुर
दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि // २.४५अ //

माम आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर
लब्धायास ते कथम अपि मया स्वप्नसन्दर्शनेषु
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास तरुकिसलयेष्व अश्रुलेशाः पतन्ति // २.४६ //

भित्त्वा सद्यः किसलयपुटान देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेद अङ्गम एभिस तवेति // २.४७ //

संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्व अहर अपि कथं मन्दमन्दातपं स्यात
इत्थं चेतश चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतम अशरणं त्वद्वियोगव्यथाभिः // २.४८ //

नन्व आत्मानं बहु विगणयन्न आत्मनैवावलम्बे
तत्कल्याणि त्वम अपि नितरां मा गमः कातरत्वम
कस्यात्यन्तं सुखम उपनतं दुःखम एकान्ततो वा
नीचैर गच्चत्य उपरि च दशा चक्रनेमिक्रमेण // २.४९ //

शापान्तो मे भुजगशयनाद उत्थिते शार्ङ्गपाणौ
शेषान मासान गमय चतुरो लोचने मीलयित्वा
पश्चाद आवां विरहगुणितं तं तम आत्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु // २.५० //

भूयश्चाह त्वम अपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किम अपि रुदती सस्वरं विप्रबुद्धा
सान्तर्हासं कथितम असकृत पृच्चतश च त्वया मे
दृष्टः स्वप्ने कितव रमयन काम अपि त्वं मयेति // २.५१ //

एतस्मान मां कुशलिनम अभिज्ञानदानाद विदित्वा
मा कौलीनाद असितनयने मय्य अविश्वासिनी भूः
स्नेहान आहुः किम अपि विरहे ध्वंसिनस ते त्व अभोगाद
इष्टे वस्तुन्य उपचितरसाः प्रेमराशीभवन्ति // २.५२ //

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलाद आशु त्रिनयनवृषोत्खातकूटान निवृत्तः
साभिज्ञानप्रहितकुशलैस तद्वचोभिर ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः // २.५३ //

कच्चित सौम्य व्यवसितम इदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान न खलु भवतो धीरतां कल्पयामि
निःशब्दो ऽपि प्रदिशसि जलं याचितश चाकश्चित कान्ताविरहगुरुणा स्वाधिकारात प्रमत्तः

निःशब्दो ऽपि प्रदिशसि जलं याचितश चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सताम ईप्सितार्थक्रियैव // २.५४ //

Comments:
 
No comments added yet
 
Welcome
 
Logout

Comment on this article

Personalities | Institutions | Articles | Knowledge Store | Cultural Quiz | About Us | Contact Us | Help Us | Home