वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः
श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्
संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु
वक्तारम् ॥
॥ ॐ शान्तिः शान्तिः शान्तिः॥
॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः
॥
ॐ आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन
मिषत् । स ईक्षत लोकान्नु सृजा इति ॥ १॥
स इमाँ ल्लोकानसृजत । अम्भो
मरीचीर्मापोऽदोऽम्भः परेण दिवं द्यौः
प्रतिष्ठाऽन्तरिक्षं मरीचयः ॥ पृथिवी मरो या
अधस्तात्त आपः ॥ २॥
स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ॥
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् ॥ ३॥
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत
यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके
निरभिद्येतं नासिकाभ्यां प्राणः ॥
प्राणाद्वायुरक्षिणी निरभिद्येतमक्षीभ्यां
चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां
कर्णाभ्यां श्रोत्रं
श्रोत्रद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि
लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो
मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या
अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत
शिश्नाद्रेतो रेतस आपः ॥ ४॥
॥ इत्यैतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः
॥
॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये द्वितीयः
खण्डः ॥
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे
प्रापतन् । तमशनापिपासाभ्यामन्ववार्जत् । ता
एनमब्रुवन्नायतनं नः प्रजानीहि
यस्मिन्प्रतिष्ठिता अन्नमदामेति ॥ १॥
ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ।
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ॥
२॥
ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति
पुरुषो वाव सुकृतम् । ता अब्रवीद्यथायतनं
प्रविशतेति ॥ ३॥
अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो
भूत्वा नासिके
प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी
प्राविशाद्दिशः श्रोत्रं भूत्वा कर्णौ
प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा
त्वचंप्राविशंश्चन्द्रमा मनो भूत्वा हृदयं
प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो
रेतो भूत्वा शिश्नं प्राविशन् ॥ ४॥
तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति
ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु
भागिन्न्यौ करोमीति । तस्माद्यस्यै कस्यै च
देवतायै हविगृर्ह्यते
भागिन्यावेवास्यामशनायापिपासे भवतः ॥ ५॥
॥ इत्यैतरेयोपनिषदि प्रथमाध्याये द्वितीयः
खण्डः ॥
॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये तृतीयः खण्डः
॥
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः
सृजा इति ॥ १॥
सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत
। या वै सा मूर्तिरजायतान्नं वै तत् ॥ २॥
तदेनत्सृष्टं
पराङ्त्यजिघांसत्तद्वाचाऽजिघृक्षत्
तन्नाशक्नोद्वाचा ग्रहीतुम् । स
यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य
हैवान्नमत्रप्स्यत् ॥ ३॥
तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन
ग्रहीतुं स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य
हैवान्नमत्रप्स्यत् ॥ ४॥
तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा
ग्रहीतु/न् स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा
हैवानमत्रप्स्यत् ॥ ५॥
तच्छ्रोत्रेणाजिघृक्षत्
तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स
यद्धैनच्छ्रोतेणाग्रहैष्यच्छ्रुत्वा
हैवान्नमत्रप्स्यत् ॥ ६॥
तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुं
स यद्धैनत्त्वचाऽग्रहैष्यत् स्पृष्ट्वा
हैवान्नमत्रप्स्यत् ॥ ७॥
तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुं
स यद्धैनन्मनसाऽग्रहैष्यद्ध्यात्वा
हैवान्नमत्रप्स्यत् ॥ ८॥
तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन
ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्यद्वित्सृज्य
हैवानमत्रप्स्यत् ॥ ९॥
तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो
यद्वायुरनायुवार् एष यद्वायुः ॥ १०॥
स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत
कतरेण प्रपद्या इति । स ईक्षत यदि
वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि
चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा
स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं
यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ११॥
स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत
। सैषा विदृतिर्नाम द्वास्तदेतन्नाऽन्दनम् ।
तस्य त्रय आवसथास्त्रयः स्वप्ना
अयमावसथोऽयमावसथोऽयमावसथ इति ॥ १२॥
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं
वावदिषदिति ।स एतमेव पुरुषं ब्रह्म ततममपश्यत् ।
इदमदर्शनमिती ३ ॥ १३॥
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम ।
तमिदन्द्रं सन्तमिंद्र इत्याचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि
देवाः ॥ १४॥
॥ इत्यैतरेयोपनिषदि प्रथमाध्याये तृतीयः खण्डः
॥
॥ अथ ऐतरोपनिषदि द्वितीयोध्यायः ॥
ॐ पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः
।तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः
संभूतमात्मन्येवऽऽत्मानं बिभर्ति तद्यदा स्त्रियां
सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ १॥
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा
। तस्मादेनां न हिनस्ति । साऽस्यैतमात्मानमत्र
गतं भावयति ॥ २॥
सा भावयित्री भावयितव्या भवति । तं स्त्री
गर्भ बिभर्ति । सोऽग्र एव कुमारं
जन्मनोऽग्रेऽधिभावयति । स यत्कुमारं
जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषं
लोकानां सन्तत्या । एवं सन्तता हीमे लोकास्तदस्य
द्वितीयं जन्म ॥ ३॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः
प्रतिधीयते । अथास्यायामितर आत्मा कृतकृत्यो
वयोगतः प्रैति । स इतः प्रयन्नेव पुनर्जायते
तदस्य तृतीयं जन्म ॥ ४॥
तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं
देवानां जनिमानि विश्वा शतं मा पुर
आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति । गर्भ
एवैतच्छयानो वामदेव एवमुवाच ॥ ५॥
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व
उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्
कामानाप्त्वाऽमृतः समभवत् समभवत् ॥ ६॥
॥ इत्यैतरोपनिषदि द्वितीयोध्यायः ॥
॥ अथ ऐतरोपनिषदि तृतीयोध्यायः ॥
ॐ कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा ।
येन वा पश्यति येन वा शृणोति येन वा
गंधानाजिघ्रति येन वा वाचं व्याकरोति येन वा
स्वादु चास्वादु च विजानाति ॥ १॥
यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं
विज्ञानं प्रज्ञानं मेधा दृष्टिधृर्तिमतिर्मनीषा
जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति ।
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवंति ॥
२॥
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे
देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो
ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव ।
बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च
स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा
हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च
यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने
प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा
प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३॥
स एतेन
प्राज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे
लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥
४॥
॥ इत्यैतरोपनिषदि तृतीयोध्यायः ॥
ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणीस्थः
श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्
संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु
तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥
॥ ॐ शान्तिः शान्तिः शान्तिः॥